संस्कृतवाङ्मये अन्तरिक्षविज्ञानम्
वैदिकपरम्परा अस्मदीया विशिष्टा आसीदिति विभिन्न-प्रमाणैः प्रमाण्यन्ते। अन्तरिक्षलोकस्य स्वरूपं अत्र जगति व्यापकमनन्तञ्चास्ति । ‘अनन्तानि वै ब्रह्माण्डानि’ इति तैत्तिरीयश्रुतिप्रमाणेन ब्रह्माण्डानामनन्तत्त्वं व्यक्तं भवति अनन्तब्रह्माण्डेष्वपि स्वकीयं ब्रह्माण्डं चतुर्दशभुवनात्मकं विद्यते तथाहि –
परात्परकेन्द्रसम्बद्धान्यनन्तमहाब्रह्माण्डानि सन्ति ।
महाब्रह्माण्डकेन्द्रसम्बद्धानि सन्त्यनन्तब्रह्माण्डानि ।।
तत्र स्वकीयब्रह्माण्डं सत्यमधिकृत्य वर्तते। स्वब्रह्माण्डीय-चतुर्दशभुवनेषु भूगोलादुर्ध्वं सप्तोर्ध्वलोकास्तथाधः सप्तपाताललोकाः विद्यन्ते । तत्र सप्तोर्ध्वलोकेषु जनः तपः सत्यं च न दृश्यते। केन्द्रप्रतिकेन्द्रान्तरसिद्धान्तेन स्व-स्व केन्द्रिकाकर्षणनिष्पत्या सर्वे लोकाः भुवनानि वा निबद्धानीति सङ्केतोऽपि वैदिकवाङ्मये दृश्यते । महर्लोक महाकाशः महानस्वर्गः महत्पिण्डानां निकेतनं मन्यते। द्युलोकः महर्लोकादधः स्तरत्रयात्मकः सूर्यादारभ्य ध्रुवान्तं मन्यते। ध्रुवादुर्ध्वं महर्लोकः। सूर्यः वरुणकेन्द्रिकः ससूर्यवरुणः यमकेन्द्रिकः सङ्केतित इति वैदिकमूलेन विज्ञानं विद्युतः प्रमाणेन ज्ञायते। त्रिलोकशब्देन भूः भुवः स्वश्चेति। तत्र भूः नाम भूगोलः, भुवः नाम भूगोलीयान्तरिक्षं, स्वः नाम सूर्यः नक्षत्राणि वरुणात्मकाश्चाकाशगङ्गास्तथा यमात्मकानि केन्द्राणि च समगच्छन्ति।
वेदेषु विमानार्थे प्रयुक्तशब्दाः – अन्तरिक्षयात्रायां कस्यचित् साधनस्य आवश्यकता भवति तदर्थं वेदेषु विमान इति शब्दः बहुधा प्रयुक्तः, किन्तु न क्वापि तस्यार्थः वायुयानम् इत्यस्ति। क्वचित् अस्य प्रयोगः अधिष्ठात्रर्थे, क्वचिद् मापकाय पारगाम्यर्थे वा प्रयुक्तः।