वैयाकरणाभिमतोपपदपञ्चमीविभक्त्यर्थः
भट्टोजिदीक्षिताचार्याः सम्बन्धार्थमुपपदविभक्तीनां विचारयन्ति । यतः उत्सर्गसमानादेशाः अपवादाः भवन्ति न्यायमङ्गीकुर्वन्ति। शेषषष्ठी सूत्रस्य अपवादभूताः उपपदविभक्तयः सन्ति । शेष षष्ठी सूत्रेण विधीयमाना विभक्तिः सम्बन्धार्थः अतः उपपदविभक्तीनामपि सम्बन्धवाच्यः वर्तते कुत्रचित् प्रतियोगित्वादिरुपः क्वचित् अनुयोगित्वादिरुपः। यतश्चाध्वकालनिमानं ततः पञ्चमी वार्तिकेन विधीयमाना पञ्चमी विभक्तेः अव्यवहितोत्तरत्वमर्थः यथा वनाद् ग्रामो योजनम्। अपि च नागेशेनोक्तञ्च वनाद् ग्रामो योजने योजनं वा इति । अव्यवहित्तोरत्वं पञ्चम्यर्थः। अस्मिन् वाक्यघटकीभूतप्रथमासप्तम्योः स्वाव्यवहितोत्तरदेशं वृत्तित्वादिरुपः सम्बन्धार्थः वर्तते। तेन वनाव्यवहित्तोरयोजनाव्यवहितोत्तरदेशवृत्तिर्ग्रामः शाब्दबोधः भवति ।
प्रतिनिधिप्रतिदाने य यस्मात् सूत्रेण विधीयमाना पञ्चमी विभक्तेः प्रतियोगित्वादिसम्बन्धः यथा प्रद्युम्नः कृष्णात् प्रति पञ्चम्यर्थः प्रतियोगित्वं सादृश्यवान् च प्रत्यर्थः तेन कृष्णप्रतियोगिकसादृश्यवान् प्रद्युम्नः शाब्दबोधः भवति । कथितञ्च नागेशेन प्रद्युम्नः कृष्णात् प्रति अत्र सादृश्यवान् प्रत्यर्थः। कृष्णप्रतियोगिकसादृश्यवानिति बोधः। तिलेभ्यः प्रति यच्छति माषान् अत्र सामान्यसम्बन्धं पञ्चम्यर्थः, स्वीकारपूर्वकं माषकर्मकं प्रत्यर्पणमिति शाब्दबोधः कथितञ्च नागेशेन तिलेभ्यः प्रति यच्छति माषान् अत्र ग्रहणपूर्वकपुनःप्रत्यर्पणं प्रतिसमभिव्याहृत यच्छतेरर्थः। एवं च तिलसम्बन्धिग्रहणपूर्वकं माषकर्मकं प्रत्यर्पणमिति बोधः।
पञ्चम्यापाङपरिभिः सूत्रेण विधीयमानपञ्चमीविभक्तेः निरुपितत्वमर्थः यथा आसकलाद् ब्रह्म, आमुक्तेः संसारः अपि च मुक्त्यधिकरणकालप्रागभावनिरुपितस्वप्रतियोग्यवृत्तित्वविशिष्टव्यापकतावान् संसारः शाब्दबोधः भवति ।
अकर्तर्यृणे पञ्चमी सूत्रेण विधीयमानविभक्तेः हेत्वर्थः तथैव विभाषा गुणेऽस्त्रियाम् सूत्रेण विधीयमानपञ्चम्यर्थः बोध्यते यथा शतात् बद्धः जाड्यात् दूरशब्दार्थः षष्ठ्यर्थः सम्बन्धः दूरदेशवृत्तित्वस्य चाश्रयतया गमनेऽन्वयः।
नागेशाचार्याणां मते अपादाने पञ्चमी विभक्तेरर्थः कः इत्युक्ते द्रव्यं कारकमिति पक्षे पञ्चमीविभक्तेः अपादानत्वशक्तिमान् क्रियाकारकभावसम्बन्धश्चार्थः वर्तते तस्मादेव कथितमाचार्यैः पञ्चम्या अपादानत्वशक्तिमानर्थः। अपादाने पञ्चमी सूत्रात् । परमलघुमञ्जूषायामपि पञ्चम्यर्थोऽवधिः। विचारितम् तद्विचारमादाय टीकाकारः वंशीमित्रः आह अवधिः अपादानत्वशक्तिमान् अपादानत्वं तदेवावधित्वमिति स्वपूर्वोक्तग्रन्थेन तयोरैक्यबोधनात्। इदमुपलक्षणं क्रियाकारकभावसम्बन्धस्यापि। अपादानत्वशक्तिमान् क्रियाकारकभावसम्बन्धश्च अपादानपञ्चम्यर्थ इति निष्कर्षः।
परमलघुमञ्जूषायामपि पञ्चमीविभक्तेः अपादानत्वशक्तिमानर्थः क्रियाकारकभावसम्बन्धश्च तस्यार्थः बोध्यते। वैयाकरणसिद्धान्तमञ्जूषायां पुनः कथितं नागेशेन कारकविभक्तिरुपपञ्चम्या अपादानमर्थः अपादाने पञ्चमी इति सूत्रात्। अस्मिन् स्थले वक्ति एवञ्च वृक्षात्पर्णं पततीत्यादाववधित्वेनावधिः पञ्चम्यर्थः बृहच्छब्देन्दुशेखरे आह तत्र विश्लेषस्य धातुलभ्यत्वादवधिः पञ्चम्यर्थः। वृक्षाद्विभजते इत्यादौ तस्यैव विभक्त्यर्थतायाः सकलसम्मतत्वाच्च। एवं ग्रन्थालोचनेन ज्ञायते यत् नागेशमते अपादानपञ्चम्यर्थः अवधिः अर्थात् अपादानत्वशक्तिमान् क्रियाकारकभावसम्बन्धश्च। शक्तिः कारकमिति पक्षे अपादानत्वं शक्तिः पञ्चमीविभक्तेरर्थः भवति किं नाम अपादानत्वमिति विचारे परमलघुमञ्जूषायां नागेशेन कथितम् तत्तत्कर्तृसमवेततत्तत्क्रियाजन्यप्रकृतधात्ववाच्यविभागाश्रयत्वमपादानत्वम् । यथा रामो वनाद् गच्छति वनादिपदार्थस्य अपादानत्वं ज्ञेयम् । समवायसम्बन्धेन वर्तमाना गमिधातुवाच्यक्रिया अस्मिन् स्थले रामः कर्ता उत्तरदेशसंयोगानुकूलपादविक्षेपादिव्यापाररुपा तज्जन्यः प्रकृते प्रतीयमानो यो विभागः स च प्रकृतगमिधात्ववाच्योऽपि विभागस्य धात्ववाच्यत्वात् तदाश्रयत्वं ग्रामस्यातीति अपादानलक्षणसमन्वयः भवति । सम्बन्धपूर्वकमेव विभागः अपि च माथुरा पाटलिपुत्रकेभ्यः आढ्यतरा अत्र विभागाभावस्य सत्वात् पाटलिपुत्रकपदार्थस्य अपादानत्वं न स्यात् चेत् कथ्यते बुद्धिपरिकल्पनामादाय सम्बन्धः तथैव च विभागोऽत्र विचारितः न तु वास्तवसम्बन्धपूर्वको विभागः विवक्षितः भाष्यप्रामाण्यात् बुद्धिकल्पितविभागामादायापादानत्वं ज्ञेयमिति कथितञ्च नागेशेन
विभागश्च न वास्तवसम्बन्धपूर्वको वास्तव एव किन्तु बुद्धिपरिकल्पितसम्बन्धपूर्वको बुद्धिपरिकल्पितोऽपि। माथुराः पाटलिपुत्रकेभ्य आढ्यतरा इत्यादौ बुद्धिपरिकल्पितायापायाश्रयणेनैव भाष्ये पञ्चमीसाधनात्। अत एव चैत्रान्मैत्रो सुन्दरः इत्यादिर्लोके प्रयोगः।
तत्तत्कर्तृसमवेततत्तत्क्रियाजन्यविभागाश्रयत्वमपादानत्वम् कथने रामः वनाद् गच्छति कर्तृभूतरामादिनिष्ठोत्तरदेशसंयोगानुकूलव्यापारजन्यविभागाश्रयत्वस्य सत्वात् वनादिपदार्थस्य अपादनत्वसिद्धे किमर्थं पूर्वोक्तलक्षणं स्वीकृतं विभागे प्रकृतधात्ववाच्यविशेषणं तदा कथ्यते खगः वृक्षं त्यजति इत्यादिस्थले वृक्षपदार्थस्य कर्तृभूतखगनिष्ठविभागानुकूलव्यापारजन्यविभागाश्रयत्वात् अपादानत्वं स्यात् तेन च पञ्चम्यापत्तिः तच्चेष्टं नास्ति तस्मात् दोषपरिहाय प्रकृतधात्ववाच्यविशेषणं विभागे स्वीकृतं तदुक्तं नागेशैः वृक्षं त्यजति खग इत्यादावपादानत्ववारणाय प्रकृतधात्ववाच्येति तथा विशेषणे स्वीकृते वृक्षपदार्थस्य अपादानत्वं न भवति ।
क्रियाजन्यप्रकृतधात्ववाच्यविभागाश्रयत्वमपादानत्वम् कथ्यतां क्रियायां तत्तत्कर्तृसमवेतत्वविशेषणं किमर्थं तदा कथ्यते तदा अपादानत्वोक्ते परस्परस्मात् मेषौ अपसरतः वाक्ये परस्परशब्दवाच्यापादानत्वं मेषपदार्थस्य च कर्तृत्वं न स्यात्। तस्मात् तदर्थं तत्तत्कर्तृसमवेतत्वविशेषणं स्वीकर्तव्यम् । कथितञ्च परस्परस्मान्मेषावपसरत इत्यत्रापादानत्वाय तत्तत्कर्त्रिति विशेषणे दाने उक्ते सति तस्य कर्ता मेषपदार्थः तत्समवेतक्रियाजन्यप्रकृतसृधात्ववाच्यविभागः तदाश्रयश्च मेषवाच्यः। नागेशेन कथितम् तत्तत्पशुविशेषनिष्ठव्यापारजन्यविभागाश्रयस्तत्तत्पशुविशेषः।