
वृक्षाणां सस्यानां वा रोपणं अस्माकं संस्थाने भवति तथैव अस्मिन् एव क्रमे अत्र हि रोपणं जातम् ।
भारतीयसंस्कृतौ तु अस्माकं वृक्षाणां पूजा कर्तव्या इति सर्वे जानन्ति तद्वदेव अश्वत्थपीप्पलादिवृक्षाणां पूजनं सर्वत्र लोकव्यवहारे दृश्यते अस्मदीया एतादृशी संस्कृति वर्तते ।
भारतीयहिन्दूधर्मस्य सभ्यतायाः संस्कृतेश्च मुख्याधारशिला वेदाश्रिता वर्तते। भारतीयपरम्परामनुश्रित्य वेदः अपौरुषेयः वर्तते। वेदः संस्कृतेः मूलभूतात्मा वर्तते। भारतीयसंस्कृतेः देदीप्यमानं स्वरूपं वर्तते। यत्र भारतीयाचार-विचार-धर्म-दर्शन-सामाजिक-राजनैतिकजीवन-ज्ञान-विज्ञानसम्बन्धीनि तथ्यानि वर्तन्ते। अतः मनुना कथितं यत् – सर्वज्ञानमयो हि सः। अत्र नैकानि वैज्ञानिकतत्त्वानि भिन्नभिन्नस्थलेषु प्राप्यन्ते यत्र वैज्ञानिकतत्त्वेषु पर्यावरणविज्ञानक्षेत्रेऽपि विविधानि तथ्यानि दरीदृश्यन्ते।
वेदगत–पर्यावरणम् –
वेदाः संस्कृतवाङ्मयस्य प्राचीनतमाः ग्रन्थरत्नाः सन्ति, ऋषिभिः प्रत्यक्षीभूताज्ञानराशिरेव वेदः नित्येव प्रामाणिकं वर्तते यत्र साक्षादृषिभिः मन्त्राः द्रष्टाः- “ऋषयोमन्त्रद्रष्टारः” इति । यत्र भारतीयमनीषिभिः संस्कृतवाङ्मयस्य सर्वोत्त्कृष्टकृतिः वेदःवर्तते । मानवसमाजे लौकिकजीवनस्य सर्वेषां विषयाणां वेदेनसहसम्बन्धः दरीदृश्यते, यथा पर्यावरणं मानवसंरक्षणार्थं महत्त्वपूर्णं वर्तते, मानवस्य लौकिकजीवने पर्यावरणस्य विषये चिन्तनं, व्याख्यानं, बेबीनार, संगोष्टी, इत्यादयेषु आयोजनं अद्यावधिपर्यन्तं दरीदृश्यते। परन्तु वेदेष्वपि पर्यावरणरक्षणस्य विषये बृहच्चिन्तनं, मन्थनञ्च दृश्येते ।
पर्यावरणशब्दस्य व्युत्पत्तिः स्वरूपञ्च –
परि + आङ् उपसर्गपूर्वकं+ वृञ् वरणे धातौः ल्युट् प्रत्यये सति पर्यावरणशब्दः निष्पन्नो भवति । अस्य अभिप्रायो भवति मानवं परितः आच्छादितवातावरणमेव पर्यावरणम् । वातावरणं तु पर्यावरणस्य समानार्थकशब्दः वर्तते परन्तु अत्र पर्यावरणशब्दस्य व्यापाकोऽर्थ: वर्तते। अस्यान्तर्गते पृथिवी, जलं, ऊर्जा, वायुः, नभ:, जलवायुः, ऋतुः, वनस्पतिः, पशु-पक्षी, जीव-जन्त्वादि समाहिता: सन्ति । इत्थं प्रकारेण मानवजीवनं परितः आच्छादितःप्राकृतिकपरिवेशरेव पर्यावरणं वर्तते। पर्यावरणे वायु-स्थल-जलमडण्लानां सर्वाणि भौतिकं रासायनिकं च तत्त्वानि सम्मिलितानि भवन्ति ।पर्यावरणमिदं भौतिक-रासायनिक-तत्त्वाभ्यां सम्मिल्य निर्मितो वर्तते ।जैविकपर्यावरणे समस्तजीव-जगत्तथा सर्वाणि पादपाः वर्तन्ते । तथा भौतिकपर्यावरणे मृदा-जल-वायु-प्रकाश-तापानाञ्च सम्मेलनं भवति । अतः वक्तुं शक्नुमः यत्-‘मानवस्य जीवनं विकासञ्च प्रभावितानि कारकाणि पर्यावरणान्तर्गते समाहितो वर्तते’। एवमेव मानवपर्यावरणयोः परस्परसम्बन्धस्य अध्ययनमेव पर्यावरणमिति। पर्यावरणस्याभिप्रायो वर्तते यत्- प्रकृतिप्रदत्तैः समस्तभौतिकसामाजिकवातावरणैः सह जैविकस्थितिरिति।
वेदेषु ऋग्वेदे प्रकृत्योपसनायाः विश्ववाङ्मयस्य आदिम ग्रन्थो वर्तते । एवञ्च पर्यावरणस्य गहनाध्ययनं गाम्भीर्यचिन्तनम्, तथा सजीवरूपेण संरक्षणस्यापि प्रथमः ग्रन्थो वर्तते । ऋषिभिः निगदितं यत्-
यददो वात ते गृहे अमृतस्य निधिर्हितः।
ततो नो देहि जीवसे।
नू चिन्नु वायोरमृतं वि दस्येत्।।[1]
अर्थात् हे वायो: ! त्वं पार्श्वे जीवनदायिनी अमृतस्वरूपा निधिः वर्तते, त्वमेव जीवनशक्तिरसि । त्वमेव सर्वरोगाणामौषधिः। वायोः अमृततत्त्वं न दस्येत् । अभिप्राय: इत्थं वर्तते यत् कदापि एतादृशं कार्यं न कुर्याद् येन वायौ विद्यमानं अमृततत्त्वस्य (ऑक्सीजन) न्यूनता भवेत् । तथैव-
येभ्यो माता मधुमत् पिन्वते पयः। पीयूषं द्यौः।[2]
अर्थात् पृथिवीमाता अस्मभ्यं मधुरं दुग्धं, अन्नं , जलञ्च ददाति। द्युलोकः अमृतं प्रददाति यस्मिन् सूर्योर्जा तथा मेघात् जलं भवति। एवमेव अथर्ववेदे उक्तम् –
मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवन्त्वन्तरिक्षम्॥[3]
अर्थात् द्युलोक:, अन्तरिक्ष:, औषधिः, तथा जलं तत्त्वानि अस्मभ्यं मधुरतां प्रदद्युः। एतानि तत्त्वानि प्रदूषणमुक्तवातावरणनिर्माणाय साहाय्यमाचरेत् । वेदेषु नैकाः मन्त्राः सन्ति ये पर्यावरणरक्षणार्थं महत्त्वपूर्णं योगदानं ददाति। अथर्वेदे निगदितं वर्तते-
“माता भूमि: पुत्रोऽहं पृथिव्या” [4]।
तत्रैव-
“भूमिर्माता, भ्रान्तरिक्षम्, द्यौर्नः पिता”[5]।
यथा मातृ-पित्रोः सेवाकरणं, तयोः कष्टनिवारणं, तयोः रक्षणम् अस्माकं कर्तव्यं भवति तथैव प्रकृतेः रक्षणम् अस्माकं कर्तव्यं भवेत् । तद्यथा-
भूमिष्ट्वा पातु हरितेन विश्वभृद्
अग्निः पिपर्तु अयसा सजोषाः।
वीरुद्भिष्टे अर्जुनं संविदानं
दक्षं दधातु सुमनस्यमानम्[6] ॥
उपर्युक्ताथर्वेदीयमन्त्रे द्योः भुवश्च उपयोगितायाः वर्णनमस्ति यत्र भूमेःअमूल्यसम्पदा अस्माभिः प्राप्यते। यथा अग्नेः लौहत्वं, वृक्षात् कल्याणकारीशक्तिरिति, इयं शक्तिरेव अस्माकं कृते प्राणवायुः (ऑक्सीजन) भवति ।
[1]ऋग्वेद 3/36/3
[2]ऋग्वेद 10/63/3
[3]अथर्ववेद 20/143/8
[4]अथर्ववेद 12/1/12
[5]अथर्ववेद 6/120/2
[6]अथर्ववेद 5/28/5