ग्राम्याः तथा न जानन्ति यथा अस्माकं शास्त्राध्येतारः जानन्ति अर्थात् अत्र अस्माकं संस्थानेन सर्वेषां जनानां बोधनाय एतादृशी गोष्ठी आयोज्यते अत्र
हि अस्यां गोष्ठ्यां शास्त्रनिष्णाताः गच्छन्ति तत्र सम्यक् वार्ता च कुर्वन्ति ।
तथाहि – अष्टादशपुराणानि सन्ति अस्माकं भारतीयसंस्कृतौ तथा च षड् शास्त्राणि सन्ति यथा च व्याकरणं ज्योतिषम् शिक्षा कल्प निरूक्त छन्दः
मुखं व्याकरणं प्रोक्तं ज्योतिषं नेत्रमुच्यते
शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान् प्रचक्षते
निरूक्तं श्रोत्रमुद्दिष्टं छन्दः विचतिः पदे
एते वेदाङ्गानि अर्थात् वेदस्य अङ्गानि सन्ति तस्माद् वेदाङ्ग इत्यपि कथ्यते । तथैव अन्येषामपि विषयणां बोधं कारयन्ति अस्माकं संस्थानस्य़ कार्यकर्तारः विद्वान्सः …