संस्कृतमहोत्सवान्तर्गते राज्यस्थसंस्कृतशिक्षकाणां संगोष्ठी  06 – 08 -2024 दिनाङ्कतः 08-08-2024 यावत् आयोज्यते

संस्कृतमहोत्सवान्तर्गते राज्यस्थसंस्कृतशिक्षकाणां संगोष्ठी 06 – 08 -2024 दिनाङ्कतः 08-08-2024 यावत् आयोज्यते

                                       अयं कार्यक्रमः पञ्चदशदिवसात्मकसंस्कृतमहोत्सवान्तर्गते भविता अतः संस्कृतसंस्कृते बहुविधकार्यक्रमाः प्रकल्पिताः भवन्तः अधिसूचनायां गत्वा अपि पठितु शक्नुवन्ति । तथा च अस्यां संगोष्ठ्यां संस्कृतव्याकरणस्य संस्कृतवाङ्मयस्य तथा संस्कृतवाक्यानां बोधः छात्राणां मध्ये किदृशः पाठः पाठनीयः तथा संस्कृतस्य अध्यापनं कथं करणीयमिति सर्वं विशिष्टाचार्याः सर्वं पाठयिष्यन्ति अत्र आगत्य भवतां सर्वेषां महान् सन्तोषः महल्लाभश्च भविता अत्र नास्ति लेश मात्रोऽपि सन्देहः।

Read More
 आमन्त्रणम् –  श्रावणशुक्लप्रतिपदातिथितः श्रावणपूर्णिमां यावत् संस्कृतमहोत्सवः आरभ्यते

आमन्त्रणम् – श्रावणशुक्लप्रतिपदातिथितः श्रावणपूर्णिमां यावत् संस्कृतमहोत्सवः आरभ्यते

पञ्चदशदिवसात्मकसंस्कृतमहोत्सवः 2024  श्रावणशुक्लप्रतिपदा तिथितः श्रावणपूर्णिमां यावत् आमन्त्रणम्                      05 – 08 – 2024 दिनाङ्कतः 19 – 08 – 2024 यावत्   अयि भो संस्कृतानुरागिणः  ….।                         प्रतिवर्षं वयं पञ्चदशदिवसात्मकसंस्कृतमहोत्सवं मन्यामहे अस्मिन् वर्षेऽपि संस्कृतमहोत्सवं सानन्देन सोत्साहेन च सम्पादयितुं वयं दृढसङ्कल्पिताः, तस्मादेव  पूर्ववत् श्रावणशुक्लप्रतिपदा तिथितः श्रावणपूर्णिमां यावत् आयोज्यते भवन्तः प्रतिदिनं online माध्यमेन 07:00 P.M. सप्तवादने सायंकाले आयान्तु इति निवेदनम् ।                                   आमन्त्रणम् । संस्कृतमहोत्सवस्य                       पञ्चदशदिवसात्मकसंस्कृतमहोत्सवः 2024 क्र. दिनाङ्कः       कार्यक्रमाः           विद्वान्सः/ अर्हः       समयः 01 प्रतिपदा 05/08/024   संस्कृतमहोत्सवस्य उद्घाटनम् स्वमिश्रीराजेन्द्रदासमहाराजः मलूकपीठाधीश्वराः   सूचयिष्यामः 02 द्वितीया 06/08/024     शिक्षकसंगोष्ठी कार्यशाला  प्रथमदिवसः व्याकरणचर्चा   श्रीमृत्युञ्जय तिवारी 07 सप्तवादने    सांयकाले   03 तृतीया 07/08/024     शिक्षकसंगोष्ठी कार्यशाला   द्वितीयदिवसः  साहित्यचर्चा  डा. पूर्णिमा केलकर महोदया 07 सप्तवादने    सांयकाले  04 चतुर्थी 08/08/024  तृतीयदिवसः  शिक्षकसंगोष्ठी पृष्ठपोषण  प्रो.  तोयनिधि वैष्णवः डा. राजकुमार तिवारी 07 सप्तवादने    सांयकाले  05 पञ्चमी 09/08/024     प्रतियोगिता लघुनिबन्धः   कक्षा द्वादशी 12 यावत् 07 सप्तवादने    सांयकाले  06 षष्ठी 10/08/024  भारतीयपर्वव्रतोपासनां          मीमांसा  डा. मृत्युञ्जयतिवारी चित्तौडगढ राजस्थानतः 07 सप्तवादने    सांयकाले  07 सप्तमी 11/08/024     प्रश्नमञ्चप्रतियोगिता तथा गोस्वामितुलसीदासपूजनम्  स्नातकोत्तरछात्राणां कृते । उपा. श्रीसुरेशचन्द्रतिवारी 07 सप्तवादने    सांयकाले  08 अष्टमी 12/08/024     आयुर्वेदे प्रायोगिकचिकित्सा पद्धतिः      डा. प्रशान्तमिश्रः वाराणसीतः 07 सप्तवादने    सांयकाले  09 नवमी 13/08/024      प्रतियोगिता  सूक्तिपाठ- ध्येय वाक्यानि 12 द्वादशी कक्षा यावन्तः    छात्राः 07 सप्तवादने    सांयकाले  10 दशमी 14/08/024  डा. तुलसी कुमार जोशी वाराणसीतः 07 सप्तवादने    सांयकाले  11 एकादशी 15/08/024  प्राशसानिकाधिकारिणां समुद्बोधनम्     सुश्री दीक्षा शर्मा 07 सप्तवादने    सांयकाले  12 द्वादशी 16/08/024  संस्कृतशोभायात्रा राज्ये सर्वेषु  विद्यालयेषु  10 दश  वादने प्रातः  13 त्रयोदशी 17/08/024  छ.ग. राज्ये संस्कृतशिक्षायाः विकासः डा. दादूभाईत्रिपाठीवर्याः छ.ग.प्रान्त – संस्कृतभारती संगठनमन्त्रिणः 07 सप्तवादने    सांयकाले  14 चतुर्दशी 18/08/024   प्रतियोगिता  संस्कृतगीतम् 12 द्वादशी कक्षा यावन्तः       छात्राः 07 सप्तवादने    सांयकाले  15 पूर्णिमा 19/08/024  सम्पूर्ति सत्रम्  विजेतृणां छात्राणां पुनः प्रदर्शनम्  प्रमाणपत्रवितरणम्   सूचयिष्यामः     विद्वान्सः एवं श्रोतारः संस्कृतसेवकाः शिक्षकाः ……।   सश्रद्धं  सादरं निवेदनं वर्तते भवन्तः  प्रतिदिनं सप्तवादने  07 :P.M. आयान्तु  अन्यान् जनान् छात्रान् अपि च प्रेरयन्तु  इति   वयं सर्वे  सम्भूय संस्कृतमहोत्सवं समाचरिष्यामः ।

Read More

प्रकृतेः स्वरुपं तथा पर्यावरणविज्ञानम्

               वृक्षाणां सस्यानां वा रोपणं अस्माकं संस्थाने भवति तथैव अस्मिन् एव क्रमे अत्र हि रोपणं जातम् ।                                                भारतीयसंस्कृतौ तु अस्माकं वृक्षाणां पूजा कर्तव्या इति सर्वे जानन्ति तद्वदेव अश्वत्थपीप्पलादिवृक्षाणां पूजनं सर्वत्र लोकव्यवहारे दृश्यते अस्मदीया एतादृशी संस्कृति वर्तते । भारतीयहिन्दूधर्मस्य सभ्यतायाः संस्कृतेश्च मुख्याधारशिला वेदाश्रिता वर्तते। भारतीयपरम्परामनुश्रित्य वेदः अपौरुषेयः वर्तते।  वेदः संस्कृतेः मूलभूतात्मा वर्तते। भारतीयसंस्कृतेः देदीप्यमानं स्वरूपं वर्तते। यत्र भारतीयाचार-विचार-धर्म-दर्शन-सामाजिक-राजनैतिकजीवन-ज्ञान-विज्ञानसम्बन्धीनि तथ्यानि वर्तन्ते। अतः मनुना कथितं यत् – सर्वज्ञानमयो हि सः। अत्र नैकानि वैज्ञानिकतत्त्वानि भिन्नभिन्नस्थलेषु प्राप्यन्ते  यत्र वैज्ञानिकतत्त्वेषु पर्यावरणविज्ञानक्षेत्रेऽपि विविधानि तथ्यानि दरीदृश्यन्ते। वेदगत–पर्यावरणम्‌ – वेदाः संस्कृतवाङ्मयस्य प्राचीनतमाः ग्रन्थरत्नाः सन्ति, ऋषिभिः प्रत्यक्षीभूताज्ञानराशिरेव वेदः नित्येव प्रामाणिकं वर्तते यत्र साक्षादृषिभिः मन्त्राः द्रष्टाः- “ऋषयोमन्त्रद्रष्टारः” इति । यत्र भारतीयमनीषिभिः संस्कृतवाङ्मयस्य सर्वोत्त्कृष्टकृतिः वेदःवर्तते । मानवसमाजे लौकिकजीवनस्य सर्वेषां विषयाणां वेदेनसहसम्बन्धः दरीदृश्यते, यथा पर्यावरणं मानवसंरक्षणार्थं महत्त्वपूर्णं वर्तते, मानवस्य लौकिकजीवने पर्यावरणस्य विषये चिन्तनं, व्याख्यानं,  बेबीनार, संगोष्टी, इत्यादयेषु आयोजनं अद्यावधिपर्यन्तं  दरीदृश्यते। परन्तु वेदेष्वपि पर्यावरणरक्षणस्य विषये बृहच्चिन्तनं, मन्थनञ्च दृश्येते । पर्यावरणशब्दस्य व्युत्पत्तिः स्वरूपञ्च –                                 परि + आङ् उपसर्गपूर्वकं+ वृञ्‌ वरणे धातौः ल्युट्‌ प्रत्यये सति पर्यावरणशब्दः निष्पन्नो भवति । अस्य अभिप्रायो भवति मानवं परितः आच्छादितवातावरणमेव पर्यावरणम्‌ । वातावरणं तु पर्यावरणस्य समानार्थकशब्दः वर्तते परन्तु अत्र पर्यावरणशब्दस्य व्यापाकोऽर्थ: वर्तते। अस्यान्तर्गते पृथिवी, जलं, ऊर्जा, वायुः, नभ:, जलवायुः, ऋतुः, वनस्पतिः, पशु-पक्षी, जीव-जन्त्वादि समाहिता: सन्ति । इत्थं प्रकारेण मानवजीवनं परितः आच्छादितःप्राकृतिकपरिवेशरेव पर्यावरणं वर्तते। पर्यावरणे वायु-स्थल-जलमडण्लानां सर्वाणि भौतिकं रासायनिकं च तत्त्वानि सम्मिलितानि भवन्ति ।पर्यावरणमिदं भौतिक-रासायनिक-तत्त्वाभ्यां सम्मिल्य निर्मितो वर्तते ।जैविकपर्यावरणे समस्तजीव-जगत्तथा सर्वाणि पादपाः वर्तन्ते । तथा भौतिकपर्यावरणे मृदा-जल-वायु-प्रकाश-तापानाञ्च सम्मेलनं भवति । अतः वक्तुं शक्नुमः यत्‌-‘मानवस्य जीवनं विकासञ्च प्रभावितानि कारकाणि पर्यावरणान्तर्गते समाहितो वर्तते’। एवमेव मानवपर्यावरणयोः परस्परसम्बन्धस्य अध्ययनमेव पर्यावरणमिति। पर्यावरणस्याभिप्रायो वर्तते यत्‌- प्रकृतिप्रदत्तैः समस्तभौतिकसामाजिकवातावरणैः सह जैविकस्थितिरिति।                                 वेदेषु ऋग्वेदे प्रकृत्योपसनायाः विश्ववाङ्मयस्य आदिम  ग्रन्थो वर्तते । एवञ्च पर्यावरणस्य गहनाध्ययनं गाम्भीर्यचिन्तनम्‌, तथा सजीवरूपेण संरक्षणस्यापि प्रथमः ग्रन्थो वर्तते । ऋषिभिः निगदितं यत्‌-                                 यददो वात ते गृहे अमृतस्य निधिर्हितः।                                 ततो नो देहि जीवसे।                                 नू चिन्नु वायोरमृतं वि दस्येत्‌।।[1] अर्थात्‌ हे वायो: ! त्वं पार्श्वे जीवनदायिनी अमृतस्वरूपा निधिः वर्तते, त्वमेव जीवनशक्तिरसि । त्वमेव सर्वरोगाणामौषधिः। वायोः अमृततत्त्वं न दस्येत्‌ । अभिप्राय: इत्थं वर्तते यत्‌ कदापि एतादृशं कार्यं न कुर्याद् येन वायौ विद्यमानं अमृततत्त्वस्य (ऑक्सीजन) न्यूनता भवेत्‌ । तथैव-                                 येभ्यो माता मधुमत्‌ पिन्वते पयः। पीयूषं द्यौः।[2] अर्थात्‌ पृथिवीमाता अस्मभ्यं मधुरं दुग्धं, अन्नं , जलञ्च ददाति। द्युलोकः अमृतं प्रददाति यस्मिन्‌ सूर्योर्जा तथा मेघात्‌ जलं भवति। एवमेव अथर्ववेदे उक्तम्‌ –                                 मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवन्त्वन्तरिक्षम्‌॥[3] अर्थात्‌ द्युलोक:, अन्तरिक्ष:, औषधिः, तथा जलं तत्त्वानि अस्मभ्यं मधुरतां प्रदद्युः। एतानि तत्त्वानि प्रदूषणमुक्तवातावरणनिर्माणाय साहाय्यमाचरेत्‌ । वेदेषु नैकाः मन्त्राः सन्ति ये पर्यावरणरक्षणार्थं महत्त्वपूर्णं योगदानं ददाति। अथर्वेदे निगदितं वर्तते-                                 “माता भूमि: पुत्रोऽहं पृथिव्या” [4]।    तत्रैव-                                 “भूमिर्माता, भ्रान्तरिक्षम्‌, द्यौर्नः पिता”[5]। यथा मातृ-पित्रोः सेवाकरणं, तयोः कष्टनिवारणं, तयोः रक्षणम्‌ अस्माकं कर्तव्यं भवति तथैव प्रकृतेः रक्षणम्‌ अस्माकं कर्तव्यं भवेत्‌ । तद्यथा-                                 भूमिष्ट्वा पातु हरितेन विश्वभृद्‌                                 अग्निः पिपर्तु अयसा सजोषाः।                                 वीरुद्‌भिष्टे अर्जुनं संविदानं                                 दक्षं दधातु सुमनस्यमानम्‌[6] ॥     उपर्युक्ताथर्वेदीयमन्त्रे द्योः भुवश्च  उपयोगितायाः वर्णनमस्ति यत्र भूमेःअमूल्यसम्पदा अस्माभिः प्राप्यते। यथा अग्नेः लौहत्वं, वृक्षात्‌ कल्याणकारीशक्तिरिति, इयं शक्तिरेव अस्माकं कृते प्राणवायुः (ऑक्सीजन) भवति । [1]ऋग्वेद 3/36/3 [2]ऋग्वेद 10/63/3 [3]अथर्ववेद 20/143/8 [4]अथर्ववेद 12/1/12 [5]अथर्ववेद 6/120/2 [6]अथर्ववेद 5/28/5

Read More

वैयाकरणाभिमतोपपदपञ्चमीविभक्त्यर्थविचारः

 वैयाकरणाभिमतोपपदपञ्चमीविभक्त्यर्थः     भट्टोजिदीक्षिताचार्याः सम्बन्धार्थमुपपदविभक्तीनां विचारयन्ति । यतः उत्सर्गसमानादेशाः अपवादाः भवन्ति न्यायमङ्गीकुर्वन्ति। शेषषष्ठी सूत्रस्य अपवादभूताः उपपदविभक्तयः सन्ति । शेष षष्ठी सूत्रेण विधीयमाना विभक्तिः सम्बन्धार्थः अतः उपपदविभक्तीनामपि सम्बन्धवाच्यः वर्तते कुत्रचित् प्रतियोगित्वादिरुपः क्वचित् अनुयोगित्वादिरुपः। यतश्चाध्वकालनिमानं ततः पञ्चमी वार्तिकेन विधीयमाना पञ्चमी विभक्तेः अव्यवहितोत्तरत्वमर्थः यथा वनाद् ग्रामो योजनम्। अपि च नागेशेनोक्तञ्च वनाद् ग्रामो योजने योजनं वा इति । अव्यवहित्तोरत्वं पञ्चम्यर्थः। अस्मिन् वाक्यघटकीभूतप्रथमासप्तम्योः स्वाव्यवहितोत्तरदेशं वृत्तित्वादिरुपः सम्बन्धार्थः वर्तते। तेन वनाव्यवहित्तोरयोजनाव्यवहितोत्तरदेशवृत्तिर्ग्रामः शाब्दबोधः भवति । प्रतिनिधिप्रतिदाने य यस्मात् सूत्रेण विधीयमाना पञ्चमी विभक्तेः प्रतियोगित्वादिसम्बन्धः यथा प्रद्युम्नः कृष्णात् प्रति पञ्चम्यर्थः प्रतियोगित्वं सादृश्यवान् च प्रत्यर्थः तेन कृष्णप्रतियोगिकसादृश्यवान् प्रद्युम्नः शाब्दबोधः भवति । कथितञ्च नागेशेन प्रद्युम्नः कृष्णात् प्रति अत्र सादृश्यवान् प्रत्यर्थः। कृष्णप्रतियोगिकसादृश्यवानिति बोधः। तिलेभ्यः प्रति यच्छति माषान् अत्र सामान्यसम्बन्धं पञ्चम्यर्थः, स्वीकारपूर्वकं माषकर्मकं प्रत्यर्पणमिति शाब्दबोधः कथितञ्च नागेशेन तिलेभ्यः प्रति यच्छति माषान् अत्र ग्रहणपूर्वकपुनःप्रत्यर्पणं प्रतिसमभिव्याहृत यच्छतेरर्थः। एवं च तिलसम्बन्धिग्रहणपूर्वकं माषकर्मकं प्रत्यर्पणमिति बोधः। पञ्चम्यापाङपरिभिः सूत्रेण विधीयमानपञ्चमीविभक्तेः निरुपितत्वमर्थः यथा आसकलाद् ब्रह्म, आमुक्तेः संसारः अपि च मुक्त्यधिकरणकालप्रागभावनिरुपितस्वप्रतियोग्यवृत्तित्वविशिष्टव्यापकतावान् संसारः शाब्दबोधः भवति । अकर्तर्यृणे पञ्चमी सूत्रेण विधीयमानविभक्तेः हेत्वर्थः तथैव विभाषा गुणेऽस्त्रियाम् सूत्रेण विधीयमानपञ्चम्यर्थः बोध्यते यथा शतात् बद्धः जाड्यात् दूरशब्दार्थः षष्ठ्यर्थः सम्बन्धः दूरदेशवृत्तित्वस्य चाश्रयतया गमनेऽन्वयः। नागेशाचार्याणां मते अपादाने पञ्चमी विभक्तेरर्थः कः इत्युक्ते द्रव्यं कारकमिति पक्षे पञ्चमीविभक्तेः अपादानत्वशक्तिमान् क्रियाकारकभावसम्बन्धश्चार्थः वर्तते तस्मादेव कथितमाचार्यैः पञ्चम्या अपादानत्वशक्तिमानर्थः। अपादाने पञ्चमी सूत्रात् । परमलघुमञ्जूषायामपि पञ्चम्यर्थोऽवधिः। विचारितम् तद्विचारमादाय टीकाकारः वंशीमित्रः आह अवधिः अपादानत्वशक्तिमान् अपादानत्वं तदेवावधित्वमिति स्वपूर्वोक्तग्रन्थेन तयोरैक्यबोधनात्। इदमुपलक्षणं क्रियाकारकभावसम्बन्धस्यापि। अपादानत्वशक्तिमान् क्रियाकारकभावसम्बन्धश्च अपादानपञ्चम्यर्थ इति निष्कर्षः। परमलघुमञ्जूषायामपि पञ्चमीविभक्तेः अपादानत्वशक्तिमानर्थः क्रियाकारकभावसम्बन्धश्च तस्यार्थः बोध्यते। वैयाकरणसिद्धान्तमञ्जूषायां पुनः कथितं नागेशेन कारकविभक्तिरुपपञ्चम्या अपादानमर्थः अपादाने पञ्चमी इति सूत्रात्। अस्मिन् स्थले वक्ति एवञ्च वृक्षात्पर्णं पततीत्यादाववधित्वेनावधिः पञ्चम्यर्थः बृहच्छब्देन्दुशेखरे आह तत्र विश्लेषस्य धातुलभ्यत्वादवधिः पञ्चम्यर्थः। वृक्षाद्विभजते इत्यादौ तस्यैव विभक्त्यर्थतायाः सकलसम्मतत्वाच्च। एवं ग्रन्थालोचनेन ज्ञायते यत् नागेशमते अपादानपञ्चम्यर्थः अवधिः अर्थात् अपादानत्वशक्तिमान् क्रियाकारकभावसम्बन्धश्च। शक्तिः कारकमिति पक्षे अपादानत्वं शक्तिः पञ्चमीविभक्तेरर्थः भवति किं नाम अपादानत्वमिति विचारे परमलघुमञ्जूषायां नागेशेन कथितम् तत्तत्कर्तृसमवेततत्तत्क्रियाजन्यप्रकृतधात्ववाच्यविभागाश्रयत्वमपादानत्वम् । यथा रामो वनाद् गच्छति वनादिपदार्थस्य अपादानत्वं ज्ञेयम् । समवायसम्बन्धेन वर्तमाना गमिधातुवाच्यक्रिया अस्मिन् स्थले रामः कर्ता उत्तरदेशसंयोगानुकूलपादविक्षेपादिव्यापाररुपा तज्जन्यः प्रकृते प्रतीयमानो यो विभागः स च प्रकृतगमिधात्ववाच्योऽपि विभागस्य धात्ववाच्यत्वात् तदाश्रयत्वं ग्रामस्यातीति अपादानलक्षणसमन्वयः भवति । सम्बन्धपूर्वकमेव विभागः अपि च माथुरा पाटलिपुत्रकेभ्यः आढ्यतरा अत्र विभागाभावस्य सत्वात् पाटलिपुत्रकपदार्थस्य अपादानत्वं न स्यात् चेत् कथ्यते बुद्धिपरिकल्पनामादाय सम्बन्धः तथैव च विभागोऽत्र विचारितः न तु वास्तवसम्बन्धपूर्वको विभागः विवक्षितः भाष्यप्रामाण्यात् बुद्धिकल्पितविभागामादायापादानत्वं ज्ञेयमिति कथितञ्च नागेशेन विभागश्च न वास्तवसम्बन्धपूर्वको वास्तव एव किन्तु बुद्धिपरिकल्पितसम्बन्धपूर्वको बुद्धिपरिकल्पितोऽपि। माथुराः पाटलिपुत्रकेभ्य आढ्यतरा इत्यादौ बुद्धिपरिकल्पितायापायाश्रयणेनैव भाष्ये पञ्चमीसाधनात्। अत एव चैत्रान्मैत्रो सुन्दरः इत्यादिर्लोके प्रयोगः। तत्तत्कर्तृसमवेततत्तत्क्रियाजन्यविभागाश्रयत्वमपादानत्वम् कथने रामः वनाद् गच्छति कर्तृभूतरामादिनिष्ठोत्तरदेशसंयोगानुकूलव्यापारजन्यविभागाश्रयत्वस्य सत्वात् वनादिपदार्थस्य अपादनत्वसिद्धे किमर्थं पूर्वोक्तलक्षणं स्वीकृतं विभागे प्रकृतधात्ववाच्यविशेषणं तदा कथ्यते खगः वृक्षं त्यजति इत्यादिस्थले वृक्षपदार्थस्य कर्तृभूतखगनिष्ठविभागानुकूलव्यापारजन्यविभागाश्रयत्वात् अपादानत्वं स्यात् तेन च पञ्चम्यापत्तिः तच्चेष्टं नास्ति तस्मात् दोषपरिहाय प्रकृतधात्ववाच्यविशेषणं विभागे स्वीकृतं तदुक्तं नागेशैः वृक्षं त्यजति खग इत्यादावपादानत्ववारणाय प्रकृतधात्ववाच्येति तथा विशेषणे स्वीकृते वृक्षपदार्थस्य अपादानत्वं न भवति । क्रियाजन्यप्रकृतधात्ववाच्यविभागाश्रयत्वमपादानत्वम् कथ्यतां क्रियायां तत्तत्कर्तृसमवेतत्वविशेषणं किमर्थं तदा कथ्यते तदा अपादानत्वोक्ते परस्परस्मात् मेषौ अपसरतः वाक्ये परस्परशब्दवाच्यापादानत्वं मेषपदार्थस्य च कर्तृत्वं न स्यात्। तस्मात् तदर्थं तत्तत्कर्तृसमवेतत्वविशेषणं स्वीकर्तव्यम् । कथितञ्च परस्परस्मान्मेषावपसरत इत्यत्रापादानत्वाय तत्तत्कर्त्रिति विशेषणे दाने उक्ते सति तस्य कर्ता मेषपदार्थः तत्समवेतक्रियाजन्यप्रकृतसृधात्ववाच्यविभागः तदाश्रयश्च मेषवाच्यः। नागेशेन कथितम् तत्तत्पशुविशेषनिष्ठव्यापारजन्यविभागाश्रयस्तत्तत्पशुविशेषः।

Read More
 राज्यस्य ग्रामेषु  भारतीयसंस्कृतेः विकासः व्रतोपवासानां सम्यक् परिज्ञानसंगोष्ठी

राज्यस्य ग्रामेषु भारतीयसंस्कृतेः विकासः व्रतोपवासानां सम्यक् परिज्ञानसंगोष्ठी

                                    ग्राम्याः तथा न जानन्ति यथा अस्माकं शास्त्राध्येतारः जानन्ति अर्थात् अत्र अस्माकं संस्थानेन सर्वेषां जनानां बोधनाय एतादृशी गोष्ठी आयोज्यते अत्र                                             हि अस्यां गोष्ठ्यां शास्त्रनिष्णाताः गच्छन्ति तत्र सम्यक् वार्ता च कुर्वन्ति ।                                       तथाहि – अष्टादशपुराणानि सन्ति अस्माकं भारतीयसंस्कृतौ तथा च षड् शास्त्राणि सन्ति यथा च  व्याकरणं ज्योतिषम् शिक्षा कल्प  निरूक्त छन्दः   मुखं व्याकरणं प्रोक्तं ज्योतिषं नेत्रमुच्यते        शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान् प्रचक्षते  निरूक्तं श्रोत्रमुद्दिष्टं छन्दः विचतिः पदे  एते वेदाङ्गानि अर्थात् वेदस्य अङ्गानि सन्ति तस्माद् वेदाङ्ग इत्यपि कथ्यते । तथैव अन्येषामपि विषयणां बोधं कारयन्ति अस्माकं संस्थानस्य़ कार्यकर्तारः विद्वान्सः …

Read More
 स्वामिश्रीश्रीनिवासाचार्यस्मृतिव्याख्यानमालायां समायोज्यते विशिष्टव्याख्यानम्

स्वामिश्रीश्रीनिवासाचार्यस्मृतिव्याख्यानमालायां समायोज्यते विशिष्टव्याख्यानम्

स्वामिश्रीश्रीनिवासाचार्यस्मृतौ समायोज्यते विशिष्टव्याख्यानम्                                                                                                                                पूज्यस्वामिश्रीश्रीनिवासाचार्यगुरुवर्याणां विशेषस्मृतौ विशिष्टव्याख्यानमायोज्यते आचार्याणां शास्त्रेषु महति गतिरासीत् तेषां जीवनशैली सरला सहजा तथा अनुकरणीया वर्तते सर्वेषां कृते । तादृशाः महापुरूषाः सर्वदा छात्राणां कल्याणाय संस्कृतव्याकरणं अहर्निशञ्च पाठयन्ति स्म । बिलासपुरस्थश्रीलक्ष्मीवेंकटेशचरणसेवायां तत्पराः आसन् । तादृशाः विद्वान्सः महत् सौभाग्येन मिलति । स्मारं स्मारं गुरुवर्याणां तेषां स्मृतौ विशिष्टव्याख्यानमारब्धमिति । छ.ग. राज्यस्य एते विभूतयः आसन् अधुना एतेषां महापुरूषाणां पुण्यस्मृतौ विशिष्टव्याख्यानमायोज्यते संस्थानम् ।  

Read More
 शास्त्रविचारः  ,  विभक्तेः परिचयः व्याकरणशास्त्र अधिगम हेतु प्रयुक्त तकनीकी शब्दावली 

शास्त्रविचारः , विभक्तेः परिचयः व्याकरणशास्त्र अधिगम हेतु प्रयुक्त तकनीकी शब्दावली 

कारक – विभक्तेः परिचयः   कारकविभक्ति – यत्र क्रियायां साक्षात् अन्वयो दृश्यते तदुच्यते कारकविभक्तिः                    करोति क्रियां निर्वतयति जनयति व्युत्पादयति इति कारकम्                                    केचिद्  वदन्ति   – क्रियाजनकत्वं कारकत्वम् –   रामः गच्छति                                तथा च   क्रियान्वयित्वं कारकत्वम् –  रामः इत्यस्य गच्छति क्रियायामन्वयः दृश्यते साक्षात् । उपपद – विभक्तेः परिचयः पदमाश्रित्य    जायमाना विभक्तिः  उपपदविभक्तिः यथा – सह योगे तृतीया पुत्रेण सह आगतः पिता   व्याकरणशास्त्र अधिगम हेतु प्रयुक्त तकनीकी शब्दावली  सारांश –                 संस्कृत शास्त्रों में भी तकनीकी शब्दावली प्रयोग देखने को मिलता है जिसमें   व्याकरणशास्त्र में अधिगम हेतु विशेष अथवा  तकनीकी शब्दावली प्रयोग किया गया है पाणिनि जी पारिभाषिक तथा परिनिष्ठित तथा अन्वर्थ शब्दावली का प्रयोग किया है । अधिगम विशेष औचित्यता को प्रदर्शन करता है। तथा शास्त्रबोध में सहायक होते है।            जैसे तङानावात्मने पदम् सूत्र आत्मनेपद सञ्ज्ञा को बता रहा है। जो एव विशेष प्रयुक्त शब्द है। आत्मनेपद । निपात एकाजनाङ् सूत्र द्वारा भी निपात को द्योतित किया जाता है।  व्याकरण में सञ्ज्ञा प्रकरण का आरम्भ भी शास्त्र प्रवृत्ति के लिये होता है । जिससे विशेष पारिभाषिक शब्दावली का प्रयोग स्पष्ट है। आत्मनेपद, परस्मैपद तथा कर्मप्रवचनीय तथा लकार और निपात, प्रकृति, प्रत्यय धातु इत्यादि शब्दावली प्रयोग व्याकरण में देखने को मिलता है । विभिन्न विशेष तकनीकी शब्दावली प्रयोग किये गये इसी को परिलक्षित करके यह  शोधलेख प्रस्तुत करने का प्रयास किया गया है।              अधिगम हेतु तकनीकी शब्दावली का प्रयोग विविध अर्थ प्रयोजन तथा सर्वबोध हेतु किया जाता है। जैसे कि मनुष्यों को ले जाने के लिये वाहन का प्रयोग लोकयान के नाम से व्यवहार होता है यद्यपि लोक शब्द मनुष्य वाचक है फिर भी यान के साथ संयुक्त करके विविध यानों में भी लोकयान का प्रयोग हो रहा है ऐसे पारिभाषिक परिनिष्ठित शब्दों का प्रयोग तकनीकी शब्दावली संस्कृत शास्त्रों द्वारा किया जाता है।     वैसे संस्कृत जगत् के लिये व्याकरणशास्त्र कि विशेष प्रासङ्गिकता है। पाणिनि व्याकरण में विविध तकनीकी शब्दावली प्रयोग अधिगम हेतु  देखा जा सकता है। भगवान पाणिनि जी ने कुछ विशेष तकनीकी शब्दावली का प्रयोग किये है तो अर्थ की दृष्टि से प्रयुक्त है जैसे अन्वर्थ सञ्ज्ञा का प्रयोग  कर्मप्रवचनीय , आत्मनेपद , परस्मैपद , एकवचन , द्विवचन , बहुवचन, अनुनासिक इत्यादि सञ्ज्ञायें अर्थ के अनुसार की जाती है इन्ही शब्दों को व्याकरण के तकनीकी शब्दों के रूप में व्यवहार किया जाता है।  सञ्ज्ञा प्रकरण में प्रयत्न सवर्ण आदि शब्द व्यवहार से शास्त्र के प्रवृत्ति की वस्तुस्थिति का बोध होता है। क्योकि ऐसे शव्दावली के बिना व्याकरण का अधिगम नही हो सकता है। कर्म क्रियां प्रोक्तवन्तः इति कर्मप्रवचनीयाः जो कर्म क्रिया को कहा गया है उसे कर्मप्रवचनीय कहा जाता है। तथा  जो अपने लिये  पद प्रयुक्त होता है उसे आत्मनेपद कहा जाता है । जो दूसरे के लिये पद प्रयुक्त किया जाता है उसे परस्मैमपद कहा जाता है । वैसे ही एकमुच्यते अनेन इति एकवचन कहा जाता है। दो के लिये  जो कहा जाये उसे द्विवचन कहा जाता है। बहुत संख्या का होने पर हम बहुवचन का प्रयोग करते है। ऐसे ही नासिकामुगतः अनुनासिकः व्यवहार किया जाता है। ऐसे विविध अर्थों को बताने के लिये तकनीकी शब्दावली का व्याकरणशास्त्र में पाणिनि जी ने प्रयोग किये है। संस्कृत व्याकरण में ऐसे ही बहुत शब्दों का प्रयोग  अधिगम के लिये देखा जा सकता है। बिना हम प्रयुक्त विशेष पारिभाषिक शब्दों के शास्त्र को नही समझ सकते ।  लकार शब्द का प्रयोग पाणिनि जी  काल के लिये प्रयुक्त करते हैं। शब्दविज्ञान को समझने के लिये काल के अनुसार शब्दप्रयोग देखा जा सकता है। लकार वाचक काल प्रयोग किया गया वर्तमान काल  लकार लट् द्वारा वैसे ही लिट् लुट् लृट् लेट् लोट् लङ् लिङ् लुङ् लृङ् विभिन्न लकारों द्वारा सूक्ष्मकाल विभाजन देखा जा सकता है। धातु सञ्ज्ञा भूवादयो धातवः पाणिनि सूत्र के द्वारा क्रिया वाचक शब्दों का धातु सञ्ज्ञा विधान किया गया है। अर्थदृष्टि से देखेंगें तो धातु शब्द धा धातु औणादिक तुन् प्रयोग किया गया है। तो धातु शब्द निष्पन्न होता है जिसका अर्थ धारयति इति धातु धारण करता है , उसे धातु कहा जाता है प्रश्न होने पर उत्तर आता है। अर्थों को धारण करता है। इसीलिये पाणिनि जी ने क्रिया वाचक के लिये धातु शब्द प्रयोग किया जिससे धातुओं को सभी अर्थों में बोला जाता है।  धातुनामनेकार्थः वाक्य भी फलित होता है। क्योंकि धारणाद् धातु कहने से अर्थ स्वीकृति स्पष्ट होती है।    ऐसे ही निपात शब्दप्रयोग सञ्ज्ञा में आया है अर्थ होता है। रखा गया अथवा गिराया गया ,  प्रश्न हुआ क्या रखा गया तो उत्तर में आता है अर्थों को जो रखा गया उसे निपात कहते जो भिन्न – भिन्न अर्थ में प्रयुक्त किया गया है। जैसे च, वा, ह इत्यादि ऐसे निपात आदि बहुत शब्दों का प्रयोग पाणिनि जी ने किया है अतः विभिन्न तकनीकी शब्दावली का प्रयोग व्याकरणशास्त्र में दर्शन होता है।   सन्दर्भ ग्रन्थ पाणिनि अष्टाध्यायी वैयाकरण सिद्धान्त कौमुदी                                                                                                                                                                                                                             शोधकर्ता                                                                                                                                                                                                                 डा. मनीष शर्मा         

Read More