संस्कृतशिक्षासंवादः
महतः सामोदस्य कालः छ.ग.संस्कृतशिक्षासेवासंस्थानद्वारा अयं प्रकल्पः सुनिश्चितः । अस्य संस्कृतशिक्षासंवादकार्यक्रमस्य उद्देश्यं वर्तते यत् राज्ये सर्वत्र शैक्षणिकसंस्थाने गत्वा शिक्षायाः प्रसारः प्रचारः करणीयः येन सर्वेषां कृते सार्वजनीनः तथा संस्कृतविषये असन्देहः स्यात् । अस्माकं संस्थाने बहवः विद्वान्सः सन्ति शिक्षकाश्च ते विभिन्नसामाजिकस्थलेषु शैक्षणिकसंस्थानेषु गत्वा विषयं संस्कृतभाषाञ्च प्रबोधयन्ति । आदौ संस्थानस्य परिचयः कर्तव्यः प्रायः सर्वे जानन्ति छ.ग.संस्कृतशिक्षासेवासंस्थानेन बहुविधकार्यक्रमाः आयोज्यन्ते तत्र च शास्त्रविषयणी चर्चा अपि सम्पद्यते जनाः सानन्देन अत्र भागं गृह्णन्ति छात्रान् प्रेरयन्ति । शिक्षासंवादकार्यक्रमे विषयाः वर्तन्ते अस्माकं भारतीयसंस्कृतौ बृहत्तरं ज्ञानं वर्तते तत्र च षड् शास्त्राणि भवन्ति तथाहि व्याकरण ज्योतिष् शिक्षा कल्प निरूक्त छन्दः तच्छ्लोकेन ज्ञायते – मुखं व्याकरणं प्रोक्तं ज्योतिषं नेत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान् प्रचक्षते ।। निरूक्तं श्रोत्रमुद्दिष्टं छन्दः विचतिः पदे ।।। वेदाङ्गानि कथ्यन्ते एतानि अङ्गानि वेदस्य तस्मादेव अङ्गावयवेन अस्य विभागः दृश्यते । संस्कृतभाषा एव नास्ति अपि संस्कारयुक्ता शैली इयं वर्तते येन अस्माकं जीवने सानन्दमायाति यथा यः गुरूकुले वसति पठति तस्य जीवनं पश्यतु आहारविहारक्रियायां कीदृशी सात्विकता तिष्ठति , अभिप्रायः वर्तते जीवने संस्कृतस्य प्रभावः भाषादृष्टया न अपितु संस्कृतिदृष्टया भवेत् इति ध्येयम् । समाजे संस्कारस्य अभावः सर्वत्र दृश्यते , कारणं वर्तते स्वकीयां संस्कृतिं विहाय पाश्चात्यसंस्कृतिं स्वीकुर्वन्ति आचरन्ति व्यवहरन्ति तेन समाजः विकृतो जायते । प्रतिदिनं श्रीमद्भगवद्गीतायाः सम्यक् अध्ययनं कर्तव्यं तेन संस्कारः जायते । अथ च वाक्यानि श्रुत्वा तत्र विहितप्रश्नानां सम्यक् उत्तरमपि मिलति तेन व्यवहारिकसमस्यायाः समाधानं भवति अयमस्ति विशेषः यथा उदाहरणेन पश्यामः यः अस्थिरः मनः सर्वत्र भ्रमति शरीरः अत्र तिष्ठति अर्थात् चञ्चलं हि मनः मम् कार्येषु विघ्नः इति वक्तुं शक्यते अस्यां अवस्थायां कोऽपि स्वकीयं कार्यं न साधयितुं शक्नोति तर्हि अस्य समाधानं कथं कर्तव्यमिति धिया समाधानं अर्जुनाय प्रयच्छति श्रीकृष्णः अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते अनेन आयाति अभ्यासः कर्तव्यः शनैः शनैः मनः संयमेन आत्मस्थिरः भवति । एवमेव बहुविधप्रश्नाः सन्ति तस्य समाधानमपि तत्रैव वर्तते श्रीमद्भगवद्गीतायाम् । संस्कृतं कथं बोधनीयमिति तर्हि सर्वप्रथमं अक्षराणां सम्यक् अभ्यासः कर्तव्यः प्रायः जनाः भाषन्ते तदा वर्णोच्चारणमेव शुद्धं भवति तर्हि प्रथमं माहेश्वरसूत्राणि सन्ति क्रमशः वक्तव्यम् 1.अइउण् 2.ऋलृक् 3. एओङ् 4.ऐऔच् 5.हयवरट् 6.लण् 7.ञमङणनम् 8.झभञ् 9.घढधष् 10.जबगडदश 11खफछठथचटतव् 12कपय् 13शषसर् 14हल् क्रमेण सुस्षष्टया वर्णानां सम्यक् उच्चारणं कर्तव्यमिति । अन्तरं अस्माकं यः प्रकल्पः सिद्धः सम्भवति यत् शिक्षाविषये संवादः अधुना इतोऽपि प्रश्नाः अत्र प्रक्ष्यन्ति चेत् तदुत्तरं वयं सर्वेभ्यः प्रदास्यामः पृच्छन्तु । अयं कार्यक्रमः सर्वत्र शिक्षणसंस्थानेषु भवति यथा विद्यालये महाविद्यालये तथा इतोऽपि चिकित्सासंस्थाने प्रौद्योगिकी संस्थाने च सम्यकतया शिक्षासंवादोऽयं कार्यक्रमः चलति एतस्य उद्देश्यमस्ति यत् संस्थानेषु छात्राणां जिज्ञासूनाञ्च संस्कृतविषयणी परिचर्चा कर्तव्या तेन भाषाविकासः भवति । अन्येषामपि रूचिः जायते तथा सम्यकतया कार्यं संस्कृतक्षेत्रे तु कुर्वन्ति । नवीनशिक्षानीतौ च पारम्परिकशिक्षायाः विकासः भवेदिति कृत्वा सर्वे भारतीयसंस्कृतिं अवगमिष्यन्ति इति विचार्य तत्र भारतसर्वकारेण स्थापितम् । राष्ट्रेऽस्मिन् संस्कृतशिक्षायाः ज्ञानं नितरामपेक्षते यतो हि जनाः संस्कृतं केवलभाषारूपेण जानन्ति किन्तु संस्कृतं अस्माकं गौरवशाली भारतीयज्ञानपरम्परा वर्तते तत्र अस्ति अस्माकं संस्कृतिः । संस्कृतशिक्षासंवादः एनं मनसि निधाय राज्ये सर्वत्र प्रचलति संस्थानमाध्यमेन ।
Read More